________________
हैमनूतनलघुप्रक्रिया
२६१ हस्ती । मेघज्योतिरिरम्मदः ॥
नग्नपलितप्रियान्धस्थूलसुभगाढ्यातदन्तच्च्च्यर्थेऽच्वेर्भुवः विष्णुखुको ।५।१।१२८॥ नग्न-पलितप्रिय-अन्ध-स्थूल-सुभग-आय एभ्यस्तदन्तेभ्यश्चाच्यन्तेभ्य• व्यर्थे वर्तमानेभ्यः पराद् भवतेः खिष्णुखुको प्रत्ययौ भवतः कर्तरि । अनग्नो नग्नो भवति नग्नम्भविष्णुः । नग्नं भाबुकः। अननग्नोऽनग्नो भक्त्यनग्नं भविष्णुः, अनग्नं भावुकः । सुनग्नं भविष्णुः । सुनग्नं भावुकः ॥ ---
कृगः खनटकरणे ॥५।१।१२९॥ नग्नादिभ्योऽव्यन्तेभ्यश्व्यर्थे वर्तमानेभ्यः परात्कृगः खनट् प्रत्ययो भवति करणे । अनग्नो नग्नः क्रियतेऽनेनेति नग्नकरणं द्यूतम् । अननग्नोऽनग्नः क्रियतेऽनेनेत्यवग्नकरणः पटः। एवमन्यदप्यूह्यम् ॥
नाम्नो गमः खड्डौ च विहायसस्तु विहः ।५।१॥१३२॥ नाम्नः पराद् गमेः खड्ड इत्येतौ खश्च प्रत्यया भवन्ति कर्तरि विहायस् शब्दस्य च विहादेशो भवति । तुरो गच्छति तुरंगः, तुरगः, तुरंगमः । बिहायसा ५-खिष्णौ गुणावादेशौ मोन्तः । २-खुकभि नामिनोऽकलीति वृद्धयामवादेशः, मोन्तः । ३-खनटि नामिन इति गुणः । मोन्तः । ४खडि डित्यन्त्यस्वरादिलोपः । मोन्तः । डेऽन्त्यस्वरादिलोपः, खे तु मोन्त एव ।