________________
हैमनूतनलघुप्रक्रिया
ओत् एते गुणसंज्ञकाः । आ आर ऐत् औत् इत्येते वर्णां वृद्धिसंज्ञका ज्ञेयाः । अ इ उ ऋ लृ इत्येतत्स्वरोत्तरं वर्णशब्दे प्रयुक्ते स्वसंज्ञकानामपि ग्रहणं ज्ञेयम् । यथा - "अवर्णस्येवर्णादिनैदोदरलि' 'त्यादाववर्णवर्णादिशब्देन सर्वेषामेवाकारादीनामीकारादीनां च प्रत्येकमष्टादशानां मिथः स्वसंज्ञकानां ग्रहणम् । एवं स्वरात्परतो व्यञ्जनाद्वा कारशब्दप्रयोगे सति ह्रस्वादिमात्रस्य षड्भेदस्य व्यञ्जनमात्रस्यैव च ग्रहणम् । यथा अकार इत्युक्ते ह्रस्वाकारस्य षड्भेदस्य ककार इति प्रयोगे च केवलस्य व्यञ्जनस्य करूपस्य ग्रहणम् । घुडादिसंज्ञास्तत्तत्कार्यावसरे दर्शयिष्यन्ते ।
इति मनूतनलघु प्रकियायां संज्ञाधिकारः समाप्तः ॥
१०
B
अथ हेमनूतनलघु प्रक्रियायां स्वरसन्धि प्रकरणम् ।
समानानां तेन दीर्घ : | १| २|१|| समानसंज्ञ कानां वर्णानां तेन परेण समानेन सहितानां दीर्घः स्यात् । अत्र सहितानामित्युक्तेर्द्वयोः स्थाने एको दीर्घो भवति ।
१- यो सहकार्यान्वये साहित्यम्, पृथगादेशे तु तन्न स्यात् । तेनेति सूत्रे सहार्थे तृतीयेति बोध्यम् ।