________________
हैमनूतन लघु प्रक्रिया
लोकात् | १|१|३|| उक्तातिरिक्तानां क्रियागुणद्रव्यजातिकाल लिङ्गसंख्यापरिमाणाऽपत्यवी सालुकसंयोगगुरुलघ्ववर्णाकारादिसंज्ञानां परान्नित्यं नित्यादन्तरङ्गमन्तरङ्गाच्चानवकाशं बलीय इत्यादिपरिभाषाणां च वर्णसमाम्नायस्य च लोकाद् वैयाकरणसिद्धान्तवेदिनः सकाशात् सिद्धिर्भवतीति ज्ञेयम् । तत्र सुहृद् भूत्वा किञ्चिदुच्यते यस्य स्थाने यो भवति स तस्यादेशः । यथा इकारादेः स्थाने भवन् यकारादि-रादेशः । अत एवादेश: शत्रुवदिति प्रसिद्धिः । पुरो वर्णानामभावो विरामोऽवसानमिति चोच्यते । लुक्लुप् - लोपशब्दा वर्णादर्शनवाचकाः । विसर्गयुक्तोऽनुस्वारयुक्तः संयोगपरश्च ह्रस्व दीर्घप्लुतौ च स्वरा गुरुरित्युच्यते । विसर्गानुस्वाररहिaisiयोगपर ह्रस्वः स्वरो लघुसंज्ञको भवति । अर एत्
-
अवसानं विरामः स्याद् वर्णानुच्चारणं पुरः । यो लुक लुप् च लोपश्च वर्णादर्शनवाचकाः ||३|| दीर्घा विसर्गानुस्वार - युक् संयोगपरो गुरुः । असंयोगपरो ह्रस्वो विसर्गाद्युज्झितो लघुः ||४|| अरेदोतो गुणसंज्ञा ऋ इ उ स्थानभाविनः । वृद्धिसंज्ञा स्मृता आ आर ऐदौच्च स्वरसंभवाः ॥५॥ स्यमौजसः स्युर्घसंज्ञाः पुंस्त्रियोः शिर्नपुंसके । विना संबोधनार्थं सिं शेषघुट्संज्ञका अमी ॥ ६ ॥ इति । १ - वि० वि० का० " यदत्र संज्ञान्यायादि वर्णाम्नायादि नोदितम् । तद्वैयाकरणादिभ्यो लोकेभ्यो बुध्यतां बुधैः " ॥१॥
इति सिद्धहेमशब्दानुशासन लघुप्रक्रियाटिप्पण्यां संज्ञाधिकारः समाप्तः ।