________________
मनूतन लघु प्रक्रिया
मिथः स्वसंज्ञकाः । तथा वर्याः पञ्च पञ्च मिथः स्वसंज्ञकाः । यलवानां प्रत्येकं सानुनासिकनिरनुनासिकतया द्वौ भेदौ परस्परं स्वसंज्ञकौ । रेफस्योष्मणां च स्वा न भवन्ति । स्वसंज्ञायामनुपयुक्तोऽपि बाह्यप्रयत्नो बोधार्थ वित्रियतेतद्यथा - तत्र विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति बाह्यप्रयत्ना एकादश । वर्गाणां प्रथमद्वितीयौ शषसाचाऽनुस्वारविसर्गजिह्वामूलीयोपध्मानीयाश्च विवाराः श्वासr अघोषाश्च । वर्गाणां तृतीयचतुर्थपञ्चमा अन्तस्था हकारथानुस्वारश्च संवारा नादा घोषाश्च । वर्गाणां प्रथमतृतीयपञ्चमा अन्तस्थावाल्पप्राणाः । वर्गाणां द्वितीयचतुर्थावृष्माणश्च महाप्राणाः । स्वराश्रोदात्तानुदात्तस्वरिताः ।
८
अप्रयोगीत् | १|१|३७ इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा यो लौकिके शब्दप्रयोगे न दृश्यते स इत्संज्ञको भवति ।।
१ - " उक्ते वर्णे स्वसंज्ञोऽपि ग्राह्यः कारे च केवलः || संयोगः स्याद् व्यञ्जनानिं स्वराऽव्यवहितान्यहो ” ||५|| इति ।
२ - वि० वि० का ० " वर्णो वर्णसमूहो वा पाठे समुपलभ्यते । न दृश्यते प्रयोगे यः स इत्संज्ञक इष्यते" ॥१॥ स्यादित्यादिर्विभक्तिः स्याद् विभक्त्यन्तं भवेत्पदम् । आदेशः शत्रुवज्ज्ञेयो भवेन्मित्रवदागमः ||२||