________________
हैमनूतनलघुप्रक्रिया शिरो मूर्धा । तत्राऽवर्णहकारविसर्गकवर्गानां कण्ठः । इवर्णचवर्गयकारशकाराणां तालु । उवर्णपवर्गोंपध्मानीयानामोष्ठौ । ऋवर्णटवर्गरेफषकाराणां मूर्धा । लवर्णतवर्गलकारसकाराणां दन्ताः । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । अनुस्वारस्य नासिका। ङञणनमानां स्वस्थवर्गस्थानं नासिका च । अन्तस्थासहितः पञ्चमसहितश्च हकार उरस्यः । हविसर्गावुरस्यावित्यन्ये । प्रयत्नो द्विधा-आस्यप्रयत्नो बाह्यप्रयत्नश्च । आद्यश्चतुर्धा-स्पृष्टतेषत्स्पृष्टतेषद्विवृतताविवृतताभेदात् । तत्र स्पर्शानां स्पृष्टताप्रयत्नः, अन्तस्थानामीपत्स्पृष्टताप्रयत्नः । ऊष्मणामीपद्विवृतताप्रयत्नः । स्वराणां विवृतताप्रयत्नः । हस्वस्याऽवर्णस्य प्रयोगदशायां संवृतताप्रयत्न इत्यपि मतम् । कादयो मावसानाः स्पर्शाः। शषसहा ऊष्माणः । तत्र अइ उ ऋ ल वर्णानाम् ए ऐ ओ औ इत्येतेषां च स्वस्त्रभेदा
१-वि० वि० का० "विसर्गोऽथाकुहाः कण्ठयास्तालव्या इचुयाश्च शः ।
उपूपध्मानीया ओष्ठ्या मूर्धन्या ऋटुषाश्च रः ॥१॥ दन्त्या लुतुलसा, ए ऐ कण्ठतालुसमुद्भवौ ।
ओ औ कण्टौष्ठजौ ज्ञेयौ वो दन्त्यौष्ठयः प्रकीर्तितः” ॥२॥ २-जिह्वयश्च जिह्वामूलीयोऽनुस्वारो नासिकोद्भवः ।
स्वस्थाननासिकास्थानाः स्युर्डञणनमा इति ॥३॥ ३-सादुरस्यो हकारस्तु सहान्तस्थः सपञ्चमः ।
आस्यप्नयत्नाः संवारविवारस्पृष्टतादयः ॥४॥ ....