________________
मनूत लघु प्रक्रिया माद्यद्वितीया वर्णाः शषसाचाघोषसंज्ञका भवन्ति । क, ख, च, छ, ट, ठ, त, थ, प, फ, श, ष, स ॥ १३ ॥
अन्यो घोषवान् १।१।१४।। अघोषेभ्योऽन्येो गादिर्वर्णो घोषवत्संज्ञको भवति । ग घ ङ । ज झ ञ । ड ढ ण । दध न । ब भ म य र ल व । ह्र ॥ १४ ॥
अं अः ५ क पः शषसाः शिट् | १|१|१६|| अनुस्वारो विसर्गों वज्राकृतिर्गज कुम्भाकृतिश्च वर्णः शषसाच शिट्संज्ञका भवन्ति । अकार - ककार - पकारा उच्चारणार्थाः ॥ १५ ॥ तुल्यस्थानास्यप्रयत्नः स्वः | १|१|१६|| तुल्यौ ।१।१।१६।। वर्णान्तरेण सदृशौ स्थानास्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञको भवति । तत्र स्थानान्यष्टौ । यदुक्तम्
" अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ॥ जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च" ॥इति ।
१ - वि० वि० का० “आद्यद्वितीया वर्गाणामघोषाः शषसा अपि " । २ - वि० वि० का० " अन्ये स्युर्गादयो वर्णा घोषवन्तश्च विंशतिः” । ३ - वि० वि० का० " शिट्संज्ञका अमी सप्त तत्र - कः कुलिशाकृतिः । गजकुम्भ कृतिः ) ( पश्च कप | वुच्चारणार्थकौ” ॥१॥
४ - वि० वि० का० " आस्यप्रयत्नस्थानाभ्यां तुल्या वर्णाः स्वसंज्ञकाः ॥ चतुर्दशानां स्वराणां स्वस्वभेदा यथा मिथः ॥ १॥ पञ्च पञ्चैकवर्गस्था वर्णाः स्वाः स्युः परस्परम् । यलवाः सानुनासिक - निरनुनासिका अपि ||२||"