________________
हैमनूतनलघुप्रक्रिया अं नासिक्यो वर्णः अः इति कण्ठयः । तौ यथासंख्यमनुस्वारविसर्गसंज्ञकौ भवतः ॥ ८॥
कादिर्व्यञ्जनम् ।१।१।१०॥ कादिवों हकारपर्यन्तोव्यञ्जनसंज्ञको भवति । क ख ग घ ङ । च छ ज झ ञ । ट ठ ड ढ ण । त थ द ध न । प फ ब भ म । य र ल व. श ष स ह ॥९॥
पञ्चको वर्गः ।१।१।१२॥ कादिषु वर्णेषु यो यः पञ्चसंख्यापरिमाणो वर्णः स स वर्गसंज्ञको भवति । कवर्ग:क ख ग घ ङ । चवर्गः-च छ ज झ ब । टवर्गः- ट ठ ड ढ ण । तवर्गः-त थ द ध न । पवर्ग:-प फ ब भ म ॥१०॥
यरलवा अन्तस्था ।१।१।१५॥ यरलव इत्येते वर्णा अन्तस्थासंज्ञका भवन्ति । बहुवचनं सानुनासिकसंग्रहार्थम् ।११। ___ अपञ्चमान्तस्थो धुट ।१।१।११॥ वर्गपञ्चमान्तस्थावर्जितः कादिवों धुसंज्ञको भवति । क ख ग घ । च छ ज झ । ट ठ ड ढ । त थ द ध । प फ ब भ । श ष स ह ॥ १२ ॥
आद्यद्वितीयशषसा अघोषाः ।।१।१३॥ वर्गाणा१-वि० वि० का० "व्यञ्जनाख्यास्त्रयस्त्रिंशद्वर्णा हान्ताश्च कादयः” । २-वि० वि० का० "मान्तेषु कादिवर्णेषु कचटतपसंज्ञकाः ।
पञ्चभिः पञ्चभिर्वर्णैर्वर्गाः पञ्च प्रकीर्तिताः” ॥१॥ ३-वि० वि० का "अवर्गपञ्चमान्तस्थास्ते चतुर्विंशति(टः ।