SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया २५९ खश् प्रत्ययो भवति । शुनीं धयति शुनीन्धयः । स्तनन्धयः॥ नाडीघटोखरीमुष्टिनासिकावाताद् ध्मश्च ५।१।१२०॥ नाडी-घटी-खरी-मुष्टि-नासिका-वात एभ्यः 'कर्मभ्यः पराद् धमतेष्ट्धेश्च खर् भवति । नाडी घमति नाडीन्धमः। नाडी धयति नाडीन्धयः । ङ्यन्त 'निर्देशात्तदभावे खश् प्रत्ययो न भवति । अत एव हस्वत्वमपि न । नाडि धमति नाडिमः, नाडिधः। पाणिकरात् ।५।१।१२१॥ पाणि-कर आभ्यां कर्मभ्यां पराद् धमतेः खश् प्रत्ययो भवति । पाणिन्धमा: करन्धमाः पन्थानः॥ कूलादुद्रुजोरहः ।५।१।१२२॥ कूलात्कर्मणः पराभ्याम् उद्ज् उद्वह् इत्येताभ्यां परः खश् प्रत्ययो भवति । कूलमुद्रजति कूलमुद्रुजो गजः। कूलमुद्वहति कूलमुद्रहा नदी॥ वहाभ्राल्लिहः ।५।१।१३३॥ वहाम्राभ्यां कर्मभ्यां १-खशि शवि अयादेशो लुगस्य । मोऽन्तः । इस्वत्वं तु न, शुनीति ड्यन्तनिर्देशात् । केचिद् ह्रस्वमपीच्छन्ति । शुनिन्धयः । २-खशि ‘ौतीति ‘धमादेशः, मोन्तः । शवि लुगस्य । इहापि हस्वत्वे मतमेदः । ३-डप्रत्यये आत्वेऽन्त्यस्वरादिलुक् । ४-अविच्छितो डित्वानोपान्त्यगुणः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy