________________
हैमनूत लघुप्रक्रिया
मन्याणिन् |५|१|११६ || कर्मणः परान्मन्यतेर्णिन् प्रत्ययो भवति कर्तरि । पण्डितं मन्यते बन्धुं पण्डि तैमानी बन्धोः ॥
.
२५८
क्यमानिपित्तद्धिते |३ | २|५० || क्यङ्प्रत्यये मानिनि शब्दे चोत्तरपदे पिति तद्धिते च प्रत्यये परे परतः स्त्रलिङ्गशब्दोऽनूङ् पुंवद् भवति । दर्शनीयां मन्यते भार्या दर्शनीयमानी भार्यायाः ॥
कर्तुः खश् ।५।१।११७॥ प्रत्ययार्थात्कर्तुः कर्मणः परान्मन्यतेः खश् प्रत्ययो भवति । यदा प्रत्ययार्थः कर्ताssत्मानमेव पण्डितत्वादिना धर्मेण विशिष्टं मन्यते तदायं कर्म, तत्रायं विधिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः ।
एजेः | ५ | १|११८ || कर्मणः परादेजयतेः खश् भवति कर्तरि । जनमेजयति जनमेजयः । अरिमेजयः ॥
शुनीस्तनमुञ्जकूलास्यपुष्पाट् दूधेः | ५|१|११९ ॥ सुनी-स्तन-मुझ-कूल- आस्य- पुष्प - एभ्यः कर्मभ्यः परात् ह्वेः
४- मिनि तीति वृद्धौं नामत्वे सौ इन् हन्निति दीर्घः । ५-खश:शिवात् श्रप्रत्ययः, खित्यनव्ययेति मोन्तः, आस्येत्यलुक् । ६–खशि -नामिन इति गुणे शवि अनादेशः, लुगस्य ।