________________
२५५.
हैमनूतनलघुप्रक्रिया एभ्यः कर्मभ्यः पराद् ग्रहेरिर्भवति कर्तरि । रजांसि गृहणाति रजोग्रेहिः कन्चुकः । फलानि गृहणाति फलेग्रहिवृक्षः। सूत्रनिर्देशादेत्वम् । मलं गृह्णाति मलग्रहिः कम्बलः॥ . शकृत्स्तम्बादत्सवीही कृगः ।५।१।१००॥ शकस्तम्बाभ्यां कर्मभ्यां परात् कृगो यथासङ्ख्यं वत्से वीही च कर्तरि इः प्रत्ययो भवति । शकृत्करिर्वत्सः । स्तम्बं गुच्छं करोति स्तम्बकरि/हिः। अन्यत्राण । स्तम्बकारः॥ .
किंयत्तबहोरः ।५।१।१०१॥ किम्-यद्-तद-बह एभ्यः कर्मभ्यः परात् करोतेरः प्रत्ययो भवति कर्तरि। कि करोति किंकरः । यत्करः । चौर्ये तस्कर; बहुकरः ॥
संख्याहदिवाविभानिशाप्रभाभाश्चित्रकाद्यन्तानन्तकारबाहरुधनुर्नान्दीलिपिलिविवलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाट् टः।५।१।१०३॥ संख्या-अहन्-दिवा-विभा-निशा-प्रभा-भास्-चित्र-कर्तृआदि-अन्त-अनन्त-कार-बाहु-अरुस्-धनुस्-नान्दी-लिपि लिबि-वलि-भक्ति-क्षेत्र-जङ्घा-क्षपा-क्षणदा-रजनि-दोषादिन-दिवस-एभ्यः कर्मभ्यः परात् करोतेष्टःप्रत्ययो भवति कर्तरि । संख्येत्यर्थप्रधानमपि । तेनैकादिपरिग्रहः। अहे१-रुत्वे घोषवतीत्युत्वेऽवर्णस्येत्योः । २-तौ मुम इति स्वानुस्वारानु- नासिको।