SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया प्रत्ययो भवति कर्तरि । धनुर्धरति धनुर्धरः शक्तिधरः। चक्रधरः । हलधरः । आदिग्रहणाद् भूधरः, पयोधरः । दण्डादेस्तु - दैण्डधारः, कर्णधारः। सूत्रधारः। आयुधादयः प्रयोगगम्याः ॥ हगो वयोऽनुद्यमे ।५।१।९५॥ कर्मणः पराद् हरतेवयसि अनुद्यमे च गम्यमाने अच् प्रत्ययो भवति कर्तरि । प्राणिनां कालकृतावस्था वयः। उद्यम उत्क्षेपणमाकाशस्थस्य वा धारणम् । तदभावोऽनुद्यमः । अस्थि हरत्यस्थिहरः श्वशिशुः। कवचहरः कुमारः। मनोहरः प्रासादः। अन्यत्र भारहीरः॥ _ आङः शीले।५।१।९६॥ कर्मणः परादाङ् पूर्वाद् हरतेः शीले गम्यमाने अच्प्रत्ययो भवति कर्तरि। शीलं स्वाभाविकी प्रवृत्तिः । पुष्पाण्याहरतीत्येवंशीलः पुष्पाहरः ।लिहादिप्रपञ्चप्रकरणमिदम् ॥ .. दृतिनाथात्पशाविः ।५।११९७॥ दृति-नाथ आभ्यां कर्मभ्यां पराद् हरतेः पशौ कर्तरि इ. प्रत्ययो भवति । दृति हरति दृतिहरिःश्वा । नाथं हरति नाथहरिः सिंहः । अन्यत्राणदृतिहारः॥ . रजः फलेमलाद् ग्रहः-1५/११९८॥ रजस्-फल-मल ६-अन्तर्वतिविभक्त्या पदत्वाद्रुत्वम् ।. ७-अणि नामिनोऽकलीति 'वृद्धिः । ८ अणि नामिनोऽकलिहलेरिति वृद्धिः।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy