SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५३ mmmmraw हैमनूचाल प्रक्रिया खित्यनव्यपारुषो मोऽन्तों हूस्वच ३।२।१११॥ स्वरान्तस्यानव्ययस्य अरुसूशब्दस्य च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तो भवति यथासंभवं हस्वश्चान्तादेशो भवति । कुक्षिमेव बिभर्ति कुक्षिम्भरिः। आत्मानमेव बिभर्ति आत्मम्भरिः । उदरमेव बिभर्ति उदरम्भरिः॥ अर्होऽन् ।५।१।९१॥ कर्मगः परादह तेरच् प्रत्ययो भवति कर्तरि । पूजामर्हति पूजा) द्विजः । पूजार्हा ब्राह्मणी॥ धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्टियष्टिशक्तितोमरघटाद् ग्रहः ।५११९२॥ धनुस्-दण्ड-त्सरु-लाङ्गल-अकुशऋष्टि-यष्टि-शक्ति-तोमर-घट एभ्यः कर्मभ्यः पराद् ग्रहेर प्रत्ययो भवति कर्तरि । धनुगृह्णाति धनुग्रहः । दण्डग्रहः । घटग्रहः । लिङ्गविशिष्टस्यपि । घटीग्रहः ॥ - सूत्राद् धारणे ।५।१।९३॥ सूत्रात्कर्मणः पराद् ग्रहेग्रहणपूर्वके धारणेऽर्थे वर्तमान'द्' अच् प्रत्ययो भवति कर्तरि । सूत्रं गृह्णाति गृहीत्वा धारयति सूत्रग्रहो मेघावी । सूत्रंग्राहो यो गृहणाति न तु धारयति ॥ __ आयुधादिभ्यो धृगोऽदण्डादेः।५।१।९४॥ दण्डादीन् वर्जयित्वा आयुधादिभ्यः कर्मभ्यः पराद् धृगो धातोरच्न १-मोन्तत्वे तो मुम इति स्वानुस्वारानुनासिको, नामिन इति गुणः । २-नाम्मो न इति नलोपे मोन्तः । ३ स्त्रियामादित्याप् । ४-अन्तर्वत्तिविभक्त्या पदत्वे सोरिति ४१ ५ अणि दिगतीति वृतिः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy