SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २५६ हैमनूसन दिया त्वाद्यर्थ आरम्भः । संख्यां करोति संख्याकरः । एककरः । बहुकरी ॥ हेतुतच्छीलानुकूलेऽशब्द श्लोक कलहगाथावैर चाटुसूत्रमन्त्रपदात् ।५।१।१०३ || हेतु - तच्छीला - नुकूलेषु कर्तृषु शब्दादिवर्जितात्कर्मणः परात्करोतेष्टः प्रत्ययो भवति । - हेतुः प्रतीतशक्तिकं कारणम् । तच्छीलं तत्स्वभावः । अनुकूल आराध्य चित्तानुवर्ती । यशः करोति यशस्करी विद्या । यशोहेतुरित्यर्थः । क्रीडां करोतीति क्रीडाकरः । क्रीडायां फलनैरपेक्ष्येण प्रवर्तमान इत्यर्थः । वचनकरः । आज्ञानुवर्तीत्यर्थः ॥ भृतौ कर्मणः | ५|१|१०४ ॥ कर्म शब्दात्कर्मणः पराकरोते रतौ यमानायां कर्तरि टो भवति । भृतिर्वेतनम्, कर्म मूल्यमिति यावत् । कर्मकरो भृत्यः । कर्मकरी दासी ॥ क्षेमप्रियमद्रभद्रात्खाण |५|१|१०५ || क्षेम - प्रियभद्र-भद्र - एभ्यः कर्मभ्यः परात्करोतेः ख अण् इत्येतौ प्रत्ययौ भवतः कर्त रे । क्षेमं करोति क्षेमङ्करः, क्षेमकारः । प्रियङ्करः, प्रियकारः ॥ I ३-टे टित्वात्स्त्रियां ङीः । अस्य नामित्यलुक् । ४ - रुत्वेऽतः कृकमीति सः । टित्वात्स्त्रियां ङीः । ५- नाम्नो न इति नलोपः । स्त्रियां टित्त्वान्ङीः । १ - खिति मोन्ते तौ मुम इति स्वानुस्वारानुनासिकौ । २ - अणि नामिनोऽकलीति वृद्धिः । 1
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy