SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया अतः कृकमिकंसकुम्भकुशाकर्णीपात्रेऽनव्ययस्य १२।३।५॥ अकारात् परस्याऽनव्ययसम्बन्धिनो रेफस्य ककमि-कंस-कुम्भ-कुशा-कर्णी-पात्रस्थेषु कखपफेषु परेषु सो भवति तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः। पयस्कामी । वायुमेव भक्षयति वायुभक्षः। कल्याणमाचरति कल्याणाचारा । सुखं प्रतीक्षते सुखप्रतीक्षः॥ मोऽकमियमिरमिनमिगमिवमाचमः।४।३।५५ ।। मान्तस्य धातोः कम्-यम्-रम्-नम्-गम्-वम्-आचम् एभ्यो वर्जितस्य णिति कृत्प्रत्यये नौ च परे वृद्धिन भवति । वहुं क्षमते बहुक्षमः । अणन्तत्वाभावादाप् । बहुक्षमा ॥ ___ गायोऽनुपसर्गाट्टक ।५।१।७४॥ कर्मणः परादनुपसर्गाद् गायतेः टक् प्रत्ययो भवति कर्तरि । सामानि गायति सामगः, सामगी ॥ .. आतो डोऽह्वावामः ।५।११७६॥ कर्मणः परादनुपसर्गाद् द्वावामावर्जितादाकारान्ताद् धातोर्डः प्रत्ययो भवति कर्तरि । गां ददाति गोदः। वादेस्त्वम् । स्वर्ग ह्वयते स्वर्गवायः। धान्यं माति धान्यमायः॥ १-अणि वृद्धौ रुत्वे सत्वे स्त्रियां डीः । २-टकि आत्वे इडेत्पुसी-. त्यालुक् । ३-डित्यन्त इत्यालोपः । ४-अणि आत्वे आत ऐरित्यैकारादेशे आय् । ५-आत ऐरित्यत्वे आय 1- .
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy