________________
२५०
हैमनुतनलघुप्रक्रिया प्रत्ययो भवति । गायनः गायनी ॥ ' तिक्कृती नाम्नि ।५।११७१॥आशिषि विषये संज्ञायां गम्यमानायां धातोस्तिक कृतश्च सर्वे प्रत्ययाः कर्तरि भवन्ति ॥
अहन् पञ्चमस्य विवक्ङिति ।४।१।१०७॥ इन्वर्जितस्य पञ्चमान्तस्य धातोः स्वरस्य क्वौ धुडादौ च क्ङिति प्रत्यये दीपों भवति । शम्यादिति शान्तिः । वर्धिषीष्ट वर्धमानः॥
कर्मणोऽण ।५।१।७२॥ कर्मणो निर्वर्त्यविकार्यप्राप्यरूपात्परस्माद् धातोरणप्रत्ययो भवति कर्तरि ।अजाद्यपवादः । कुम्भं करोति कुम्भकारः। काण्डं लुनाति काण्डलीवः । सूत्रधारः, भारवाहः, द्वारपालः ॥
शीलिकामिभक्ष्याचरीक्षिक्षमो ण : ।५।११७३॥ कर्मणः परेभ्यः शीलि-कामि-भक्षि-आचरि-ईक्षि-क्षम्-इत्येतेभ्यो धातुभ्यो णः प्रत्ययो भवति कर्तरि ॥ धर्म शीलयति धर्मशीलः" । धर्म कामयते धर्मकामः । अण्यन्तावणेव ॥ ८-आदित्यात्वे आत ऐरित्यत्वे आयादेशः । स्त्रियां टित्वान्डीः । ९-म्नामिति पञ्चमः । १०-आनशि अतो म इति मोन्तः । ११-कुम्भं करोतीति लौकिकविग्रहे कुम्भ अम् कृ इति स्थितेऽणि, कुम्भ अस क अ इति जाते वृद्धौ गतिकारकेति परिभाषया स्याद्युत्पत्तेः प्रागेव ङस्युक्तमिति समासे ऐकार्य इति स्यादि लुपि नामसंज्ञादिकार्यम् । एवमन्यत्रापि समासः कृदन्तविषये बोध्यः । १२-अणि वृद्धावान् । १३-णे णेरनिटीति णिलोपः । १४-णे णिलोपः।