SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया: .. स्वरात् ।२।३३८५।। अदुरुपसर्गान्तःशब्दस्थाद् रघुवर्णात्परस्य कृद्विषयस्य नकारस्य स्वरादुत्तरस्य णो भवति । पत्तविषये अलचटतवर्गशसान्तर इति सर्वत्र द्रष्टव्यम् । प्रयाणीयम् , प्रवहणीयम् , प्रभवणीयम् । स्वरादिति किम् ।। प्रभग्नः, प्रभुग्नः॥ नाम्यादेरेव ने ।२।३।८६॥ अदुरुपसर्गान्तःशब्दस्थाद रवर्णात् परस्य नागमे सति नाम्यादेरेव धातोः परस्प स्वरादुत्तरस्य कृद्विषयस्य नकारस्य णो भवति । प्रेझेणीयम् । इखु गतौ शब्धिकरणः। नाम्यादेरेवेति किम् ? प्रकम्पनीयम् ।। व्यञ्जनादे म्युपान्त्यादा ।२।३८७॥ अदुरुपसगर्गान्तः शब्दस्थाद् रघुवर्णात्परो यो व्यञ्जनादिर्नाम्युपान्त्यो धानुस्ततः परस्य कृद्विषयस्य स्वरादुत्तरस्य नकारस्य णो वा भवति । प्रकोपणीयम् , प्रकोपनीयम् । प्रमेहणीयम् । प्रमेहनीयम् ॥ इति कृदन्ते कृत्यप्रक्रिया ॥ ॥ अथ पूर्वकृदन्तप्रकरणम् ॥ कर्तरि ।५।१।३॥ कृत्प्रत्ययोऽर्थविशेषनिर्देशमन्तरेण कर्तरि भवति ॥ ___णकतृचौ ।५।१।४८॥ धातोः परौ णकतृचौ प्रत्ययौ कर्तरि भवतः । पाँचकः, पक्ता, पठिता, कारकः, कर्ता, ४-म्नामिति पञ्चभे सति णत्वम् । ५-णितीनि वृद्धिः । ६-चज इति कः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy