________________
हैमनूतनलघुप्रक्रिया
२४५ मोदको मैत्राय । न व्यथत इत्यव्यथ्यो मुनिः । वसतीति पास्तव्यः॥ - भव्यगेयजन्यरम्यापात्याप्लाव्यं नवा ।५।१७॥ भव्य-गेय-जन्य-रम्य-आपात्य-आप्लाव्य-एते कर्तरि वा निपात्यन्ते । भवत्यसाविति भव्यः। पक्षे भाव्यमनेन । अनावश्यक तु भव्यम् । गायतीति 'गेयो माणवकः साम्नाम् । गेयानि सामानि । जायते इति जन्यः। जन्यमनेन । रमयतीति रम्यः, अन्तर्भावितण्यर्थः । रम्यमनेन । स्वयमेवापततीत्यापात्यः। आपात्यमनेन । आपलवतेऽसावाप्लाव्यः, आँप्लाव्यमनेन, आप्लव्यमिति वा ।।
प्रवचनीयादयः ।५।१८॥ प्रवचनीयादयः शब्दा: कतरि अनीयप्रत्यत्यान्ता वा निपात्यन्ते । प्रवक्ति प्रब्रूते का प्रवचनीयो गुरुः शासनस्य । उपतिष्ठते इत्युपस्थानीयः शिष्यो गुरोः। रमयतीति रमणीयो देशः। मादयतीति मदनीया योषित् । दीपयतीति दीपनीयं चूर्णम् । मोहयतीति मोहनीयं कर्म । ज्ञानं दर्शनमावृणोतीति ज्ञानावरणीयं दर्शना. वरणीयं कर्म । बहुलाधिकारादेव सिद्धे प्रपश्चार्थमिदम् ॥
१२-स्वरान्तत्वाद्यप्रत्यये गुणे व्यक्य इत्यव् । अवश्यंभावे ध्यणि
वृद्धिः, आव ॥ १-कर्तरि ये आत एत्वम् । २-न जन बध इति वृद्धिनिषेधः ।
३-आवश्यके ध्यणि रूपमिदम् । ये त्वाप्लव्यम् ।