________________
२४३
हैमनूतनलघुप्रक्रिया. धातोः कृषि चति ऋचिवर्जितात् क्यप्प्रत्ययो भवति। वृत्या, गृध्यम्। अकृपिचूदृच इति किम् ? कल्प्यम् , चर्त्या अय॑म् ॥
कृषिमृजिशंसिगुहिदुहिजपो वा ।५।१४॥ -वृष्-मज्-शंस्-गुहू-दुइ जप्-एभ्यः क्यप् प्रत्ययो च भवति । कृत्यम् , कार्यम् , वृष्यम् , वर्ण्यम् , मृज्यम् , मार्यम् , आवश्यके मार्व्यम् । शस्यम् , शंस्यम् । गुह्यम् , गोह्यम् , दुह्यम् , दोह्यम् । जप्यम् , जाय॑म् ॥
व्याप्ये धुरकेलिमकृष्टपच्यम् ।५।१।४॥ घुरकेलिम इत्येतौ प्रत्ययौ कृष्टपच्यशब्दश्च व्याप्ये कर्तरि भवति । भज्यते स्वयमेव भगुरं काष्ठम् । स्वयमेव पच्यन्ते पचेलिमा माषाः । भिदेलिमास्सरलाः। कृष्टे स्वयमेव पच्यन्त इति कृष्टंपच्याः शालयः॥
रुच्याव्यथ्यवास्तव्यम् ।५।१।१५॥ रुच्य-अव्यथ्य -वास्तव्य एते कर्तरि निपात्यन्ते । रोचते इति हैच्यों
४-पवर्गान्तत्वादये गुणे ऋर इति लः । ५-व्यञ्जनाद् ध्यण् । ६-अनावश्यके ध्यणि लघूपान्त्यगुणे मृजोऽस्येति वृद्धौ क्तेऽनिट इति गः । ७-नो व्यञ्जनस्येति नलोपः । ८-क्यविकल्पबलाद् ध्या ९-क्तेऽनिट इति गत्वे म्नामिति पञ्चमः । १०-य प्रत्ययो निपात्वते । ११ रोचते पूर्वाद्वयवतेश्च क्यप्प्रत्ययो वसतेस्तु तथा मात्यो । मितीति धिः ।