________________
२४३
हैमनूतनलघुप्रक्रिया पराद् वदेः क्यप् यश्च प्रत्ययो भवतः । ब्रह्मोद्यम् , ब्रह्मवधम् । सत्योद्यम् , सत्यवद्यम् ॥ ___ हत्याभूयं भावे ।५।१॥३६॥ अनुपसर्गानाम्नः परौ हत्या भूय इत्येतौ भावे क्यवन्तौ निपात्येते । ब्रह्मणो हननं ब्रह्महत्या, भ्रूणहत्या । स्त्रीत्वं लोकात् । भवते नपुंसके भावे क्यप् । ब्रह्मभूयं गतः, देवभूयं गतः, ब्रह्मत्वं देवत्वं गत इत्यर्थः। हन्ते भवेध्यण् न भवत्यनभिधानात् ॥
खेयमृषोये ।५।१॥३४॥ खेय-मृषोद्य इत्येतौ क्यवन्तौ निपात्येते । खनेय॑णोऽपवादः क्यप , अन्त्यस्वरादेरेकारश्च । खेयम् , निखेयम् , उत्खेयम् । मृषापूर्वाद्वदतेः क्यप । मृषोद्यम् , कर्मणि भावे वा । उच्छ्रायसौन्दर्यगुणा मृषोद्याः॥ . दृवृगस्तुजुषेतिशासः ।।१॥४०॥ दृ-वृ-स्तु-जुषइ-शास्-एभ्यः क्यप भवति ॥ . इस्वस्य तः पित्कृति ।४।४।११४॥ हूस्वान्तस्य धातोः पिति कृत्प्रत्यये तोऽन्तो भवति । आइत्यः, प्रावृत्यः, स्तुत्यः, अवश्यस्तुत्यः, । जुष्यः, एतीतीणिकोहणम् । इत्यः, अधीत्य ः। शिष्यः । आशासेस्तु आशास्यम् ॥ __ ऋदुपान्त्यादकृपिचदृचः ।५।१।१४॥ ऋदुपान्त्याद् . ५-क्यपि यजादिवचेरिति . टवृति समासे नाम्नो न इति. नलोपे सन्धिः । ६-हन्तेः स्त्रीभावे क्यप् तकारश्चान्तादेशः । समासे नलोपे आदित्याप् । १-परत्वात्स्यबेव न ध्यण् । २-पूर्व : पूर्वोत्तरपदयोः कार्य पश्चात् सन्धिकार्यम् । ३-क्यपि इसास इतीसादेशे नाम्यन्तस्थेति षः।