SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २९२ः हैमनूतनलघुप्रक्रिया: निर्दिष्टादर्थादेरन्यत्रापि बहुलं' भवति । याज्यम् , भाग्यम् । आवश्यके तु भाज्यम् ॥ ' यममदगदोऽनुपसर्गात् ।५।१॥३०॥ यम्-उद्-गद् -एभ्योऽनुपसर्गेभ्यो यः प्रत्ययो भवति । यम्यम् , मद्यम् , गद्यम् । यमोऽनुपसर्गादेवेति नियमः। नियम्यमिति बाहुलकात् । माद्यत्यनेनेति मद्यम् , बाहुलकात्करणेऽपि । प्रमाद्यम् , निगाद्यम् ॥ 'क्षय्यजय्यौ शक्तौ ।४।३।९०॥ क्षि-जि इत्येतयोः शक्तो गम्यमानायां यप्रत्यये अयन्तादेशो निपात्यते । क्षेतुं शक्यः भैय्यो व्याधिः। जेतुं शक्यो जय्यः शत्रुः। अहदिौ क्षेयं जेयम् ॥ - क्रय्यः क्रयाथैः ।४।३।९१॥ क्रीणातेयप्रत्यये अयन्तादेशो निपात्यते क्रयाय चेत्प्रसारितोऽभिधेयो भवति । क्रेतारः क्रीणीयुरिति बुद्धया आपणे प्रसारित क्रय्यम् । अन्यत्र तु क्रेयं नो धान्यं न चाति प्रसारितमाषणे ॥ वा करणे ।५।१॥३४॥ वहे: करणे यो निपात्यते । वहन्ति अनेन वा शकटम् , बाह्यमन्यत् ॥ नाम्नो वदः क्यप् च ।५।१॥३५॥ अनुपसर्गानाम्नः । १-क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः, क्वचिद्विभाषा, ववचिदन्यदेव । विधेर्वि. 'धानं बहुधा समीक्ष्य, चतुर्विधं बाहुलुकं वदन्ति ॥१॥ २-ध्यणि क्तेऽनिट इति गः । ३-सोपसर्गाद् ध्यण् । ४-गुणे निपातनादयादेशः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy