________________
-
इत्येती प्रत्ययौ भवतः। शक्तिव्यम् , शयनीयम् । बस्तव्यम् , सनीयम् ॥ - असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः ।५।१।१६॥ इतः सूत्रादारभ्य स्त्रियां क्तिरित्यतः प्राक् योऽपवादस्तलियेऽसमानरूप औत्सगिकः प्रत्ययो वा भवति। कर्तव्यः करणीयः कार्यों वा कटस्त्वया । अवश्यं लाव्यं लवितव्यं लवनीयम् । एवमन्यत्राषि बोध्यम् ॥
य एच्चातः।५।११२८॥ स्वरान्ताद धातोर्यः प्रत्ययो भवति, अन्त्याकारस्य चैकारो भवति । चेयम् , जेग्म् , देयम् , धेयम् , ध्येयम् , ग्लेयम् , गेयम्, नेयम् , शेयम् , लव्यम् , भव्यम् , वर्णान्तात्तु ध्यणेव ॥
शकितकिचतियतिशसिसहियजिभजिपवर्गात १५।१।२९॥ शक्-तक्-चत्-यत्-शस्-स-यज्-भज्-एभ्यः पवर्गान्तेभ्यश्च धातुभ्यो यः प्रत्ययो भवति । ध्यणोऽपवादः। शक्यम् , तक्यम् , चत्यम् , यत्यम् , शस्यम् , सह्यम् , यज्यम् , भज्यम् , गोप्यम् , लभ्यम् , गम्यम् । यजेस्त्यजयजेतिनिषेधाद् भजेश्च बाहुलकाद् ध्यणपि । तथा च सूत्रम्
बहुलम् ।५।१।२॥ अधिकारोऽयम् । कृत्प्रत्ययो यथा २-इटि गुणावगदेशौ । ३-इनिषेधः । ४-इण्निषेधे गुणः । ५-इटि गुणावादेशौ । ६-मात्सन्ध्यक्षरेत्याइत्वम् । ७-गुणे: श्यक्य इत्यवादेशः।