SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया २३९ वचोऽशब्दनाम्नि ।४।१।११९।। अशब्दसंज्ञायां गम्यमानायां वचेय॑णि को न भवति । वाच्योऽर्थः। शब्दे तु वाक्यम् ॥ प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ ।।४।२९॥ प्रैषानुज्ञावसरेषु गम्यमानेषु धातोः कृत्यप्रत्ययाः पञ्चमी च विभक्ति र्भवति ॥ न्यत्कारपूर्विका प्रेरणा प्रेषः। अनुज्ञा कामचारानुमतिः। अतिसर्ग इति यावत् । अवसरः प्राप्तकालता। निमित्तभूतकालोपनतिरिति यावत् ॥ शक्काहे कृत्याश्च ।५।४।३५॥ शक्तेऽर्हे च कर्तरि गम्यमाने धातोः कृत्याः सप्तमी च भवति । भवता खल्ल कटः कार्यः । अत्र हि भवान् हि प्रेषितोऽनुज्ञातः शतोऽर्हः, भवतोऽवसरः कटकरणे इति वा गम्यते । एवमन्यत्रापि यथायथमूह्यम् ॥ निप्राद् युजः शक्ये ।४।१।११६॥ निप्राभ्यां परस्य युजः शक्येऽर्थे गम्यमाने व्यणि परे गो न भवति । नियोक्तुं शक्यो नियोज्यः, प्रयोक्तुं शक्यः प्रयोज्यः। अन्यत्र तु नियोग्यः प्रयोग्यः ।। भुजो भक्ष्ये ।४।१।११७॥ भक्ष्येऽर्थे व्यणि परे मोन स्यात् । मुज्यत इदं भोज्यममादि। अन्यत्र भोग्या भूः॥ --
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy