SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया भूषार्थसन्निकरादिभ्यश्च त्रिक्यौ |३|४|१३|| भूषार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यो ण्यादिभ्यश्च धातुभ्यः कर्मकर्तरि निक्यौ न भवतः । अलंकुरुते अलंकरिष्यते अलमकृत वा कन्या स्वयमेव ॥ इति कर्मकर्तृप्रक्रिया || २३८ अथ कृदन्ते कृत्यप्रक्रिया आ तुमोत्यादिः कृत् |५|१|१॥ धातोर्विधीयमानस्त्यादिवर्जितो वक्ष्यमाणः प्रत्ययस्तुममभिव्याप्य कृत्संज्ञो भवति ॥ ते कृत्याः | ५|१|४७|| ध्यण् - तव्य - अनीय-य - क्यप् इत्येते प्रत्ययाः कृत्यसंज्ञका भवन्ति । ते च तत्साध्यानाप्यादिति भावकर्मणोर्बोध्याः || ऋवर्णव्यञ्जनाद् ध्यण | ५ | १|१७|| ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातोर्घ्यण् प्रत्ययो भवति । कार्यम्, हार्यम्, धार्यम्, पायेंम् ॥ क्तेऽनिश्चजोः कगौ घिति | ४|१|१११ ॥ क्तेऽनिटो धातोश्वकारजकारयोः स्थाने घिति प्रत्यये यथासंख्यं कमौ भवतः । भङ्ग्यम्, योर्ग्यम्, भोग्यम् ॥ । ३ - कृदन्तेभ्यः सर्वेभ्य एव नामसंज्ञायां स्यादिविभक्तिः, नामिन इति वृद्धिः । ४ - णितीति वृद्धिः । ५- म्नां धुडिति पञ्चमः । ६-लघोरुपान्त्य - स्येति गुणः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy