________________
हैमनूतनलघु प्रक्रिया
च
एवं च कर्तृव्यापारापेक्षया पूर्वं करणत्वादिसद्भावेऽपि सम्प्रति कर्तृव्यापाराविवक्षायां स्वव्यापारे कर्तृत्वात्कर्तरि विभक्ति: करणादेः । यथा साध्वसिरिछनत्ति, स्थाली पंचतीत्यादि । कर्मणस्तु कर्तृत्वविवक्षायां कर्मणोऽभावात् प्राक् मेका अपि सम्प्रत्यकर्मका इति तेभ्यो भावे कर्त्तरि प्रत्ययः । तत्र भावे - पच्यते ओदनेन, भिद्यते काष्ठेनेत्यादि । कर्तरि प्रत्यये तु - एकधातौ कर्मक्रिययैका कर्मक्रिये | ३|४|८६|| एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तृरूपे धातो जिक्यात्मनेपदानि तथा भवन्ति । कर्मणि भावे वा यथा भवन्ति तथा भवन्तीत्याशयः । यत्र कर्मणि क्रियाकृतो विशेष उपलभ्यते सा क्रिया कर्मस्था पाकादिका । पच्यते ओदनः स्वयमेव, क्रियते कटः स्वयमेव, अभेदि काष्ठं स्वयमेव ॥
रुधः | ३|४|८९ || रुधो धातोः कर्मकर्तरि ञिच्न भवति । अरुद्ध गौः स्वयमेव ॥
२३७
स्वरदुहो वा | ३ | ४ | ९० ॥ स्वरान्ताद् धातोर्दुहेश्व कर्मकर्तरि त्रिच् वा न भवति । अकृत अकारि वा कटः स्वयमेव । अदुग्ध अदोहि वा गौः स्वयमेव ॥
१ - धुड् हस्वादिति सिज्लुक् । सिनाशिषाविति कित्त्वान्न गुणः । अध इति घः, तृतीयः । २ - भ्वादेददिरिति घः, अंध इति चतुर्थः । तृतीय इति तृतीयः, गुणस्तु कित्त्वान्न ।