________________
२३६
हैमनूतनलघुप्रक्रिया सङ्ग्रहात् । प्रसिद्धरविवक्षातः, कर्मणोऽकमिका क्रिया ॥१॥ उत्तपते पाणिम् , तपति रविः । शब्दायति मेघः । नदी वहति । पचति चैत्रः ॥ "गौणे कर्मणि दुह्यादेः, प्रधाने नीहकृष्वहाम् । बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥१॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां त्यादयो मताः ॥ इति । दुह्यादेगौंणे कर्मणि न्यादेश्च प्रधाने कर्मणि त्यादयः । बुद्धयर्थभक्षार्थशब्दकर्मकाणां ण्यन्तानां प्रयोज्ये कर्मणि मुख्य वा त्यादयः। अन्येषां ण्यन्तानां तु प्रयोज्ये कर्मणि त्यादय इत्याशयः । यदर्थ क्रियाऽऽरभ्यते तन्मुख्यं कर्म, तत्सिद्धये च यदन्यक्रिययाऽऽप्यते तद् गौणं कर्मेति विवेकः। गां दोग्धि पयः, गौः पयो दुह्यते । अजां नयति ग्रामम् , अजा ग्रामं नीयते । एवमन्यदप्यूह्यम् ॥ दुहादयश्च यथा- "दुह याचपच्दण्डरुधिप्रच्छिचिगशासजिमन्थमुषो नीकृष्वहश्च ।" एषां धातूनामर्थे वर्तमाना अन्येऽपि द्विकर्मकाः, अर्थनिबन्धनं हि द्विकर्मकत्वमिति ध्येयम् ॥
___ इति भावकर्मप्रक्रिया ॥
॥ अथ कर्मकर्तृप्रक्रिया ॥ यदा सौकर्यातिशयादि द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते, स्वव्यापारे स्वतन्त्रत्वात् । तदुक्तम्-"स्वव्यापारेषु कर्तृत्वं, सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां, करणत्वादिसम्भवः ॥१॥ इति ।