SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३५ 9 हैमनूतन लघुप्रक्रिया आचामि, आचमिषाताम् आचेमे, आचमिषीष्ट । उपसर्गान्तर-पूर्वाभिरुपसर्गाच्च चमेर्वृद्धिर्न भवति । अचमि । पठ्यते, अपाठि, अपठिषाताम्, पेठे, पठिषीष्ट, पठितासे । स्थीयते, अस्थीयत, अस्थायि तस्थे, स्थासीष्ट, स्थातासे । भूयते, अभावि । अनुभूयते, अन्वभावि, अन्वभाविषाताम् अन्वभविषाताम् अनुबभूवे, अनुवभूविद वे, अनुवभूविध्वे, अनुभाविषीष्ट, अनुभविषीष्ट, अनुभावितासे, अनुभवितासे, अनुभाविष्यते, अनुभविष्यते, अन्वभाविष्यत, अन्वभविष्यत ॥ उपसर्गवशाद् धातोरर्थान्तरवृत्तितयाऽकर्मकोऽपि सकर्मकः । उपस्थीयते, उपास्थायि, उपास्थायिषाताम् उपास्थासाताम्, उपतस्थे, उपस्थायिषीष्ट, उपस्थासीष्ट, उपस्थायिषीद्वम्, उपस्थासीध्वम् उपस्थायिता, उपस्थाता ॥ " लज्जासत्ताजागरण -स्थितिवृद्धिक्षय जीवितमरणे । शयनक्रीडारुचिदीप्त्यादौ, धातुरकर्मक इष्टः शास्त्रे " ॥१॥ निष्कर्षस्तु धातुवाच्यव्यापार फलयोः सामानाधिकरण्येऽकर्मकता क्रियायाः, तयोर्वैयधिकरण्ये पुनः सकर्मकता । तदुक्तम् - " फलव्यापारयोरेक-निष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे, सकर्मक उदाहृतः ॥ १॥ इति । क्रियाया अकर्मकत्वसकर्मकत्वे तद्वाचकधातुषूपचर्यते । भावो धात्वर्थः क्रिया । फलाश्रयः कर्म व्यापाराश्रयश्च कर्ता । " धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोप 9 , ७- ईञ्जन इति ईः । ८ - सकर्मकत्वात्कर्मणि त्यादिः, दीर्घवीत दीर्घः । ९- ञिटि वृद्धावान् । पक्षे गुणावादेशौ ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy