SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३४ हैमनूतनलघुप्रक्रिया मोऽकमियमिरमिनमिगमिवमाचमः ।४।३।५५।। कम्-यम्-रम्-नम्-गम्-त्रम्-आचम्-एतैर्विना मान्तस्य धातोणिति कृति नौ च परे वृद्धिर्न भवति । शम्यते, अशमि, शेमे, शमितासे । भावे आत्मनेपदम् , शान्तौ शमेरकर्मकत्वात् । भावे चौत्सर्गिकमेकवचनं युष्मदस्मत्सामानाधिकरण्याभावात् क्रियायाश्च संख्याभावात् । अविवक्षितकर्मकादपि-किं करोतीति क्रियाप्रश्ने पचतीत्युत्तरे क्रियामात्रस्यैव विवक्षा, तावतैव जिज्ञासानिवृत्तेः । इत्थमेव कर्मणोऽविवक्षाऽन्यत्राप्यूह्या । तत्र भावे आत्मनेपदं क्यश्चेति पच्यते, अपाचि, पेचे, पक्षीष्ट, पक्तासे, पक्ष्यते । कम्यादेस्तु कम्यते, अकामि, अकमिषाताम् , यम्यते, अयामि, उपायामि, उपायसाताम् , उपायंसाताम् , उपयेमे, उपायसीष्ट, उपायन्तासे, रम्यते, अरामि, रेमे, रंसीष्ट, रन्तासे । नम्यते, अनामि, अनंसाताम् . नेमे, नंसीष्ट, नन्तासे । गम्यते, अगामि ॥ गमो वा ।४।३।३७॥ गमेः परे आत्मनेपदविषये सिजाशिषौ किद्वद् वा भवतः । अगसाताम् , अगंसाताम् , जग्मे, गसीष्ट, गंसीष्ट, गन्ता, गंस्यते । वम्यते, अवामि, अवमिषाताम् , वेमें, ववमे, वमिषीष्ट, वमितासे । आचम्यते, १-चज इति कः, नाम्यन्तस्थेति षः । २-वा स्वीकृताविति कित्त्वे यमिरमीति मकारलोपः । पक्षे शिहे इत्यनुस्वारः । ३-म्नामिति पञ्चमः । ४-गमो वेति कित्त्वे यमिरमीति मकारलोपः । पक्षे शिडहे इत्यनुस्वारः । ५-इन्ध्यसंयोगादिति कित्त्वे गमहनेत्युपान्त्यलोपः ६-जुभ्रमेति वा एकारो द्वित्वनिषेधश्च ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy