SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ज्ञातव्याः । बहुलग्रहणं हि प्रयोगानुसरणार्थम् । तेन ओदनस्य पाकं करोतीत्यादौ न भवति । सत्यार्थवेदस्याः ॥३४॥४४॥ सत्य-अर्थ-वेद-इत्येतेषां णिच्सन्नियोगे आकारोऽन्तादेशो भवति । सत्यमाचष्टे करोति वा सत्यापेयति । अससत्यपत् । अर्थमाचष्टे करोति वा अर्थापयति, आथिपत् । वेदमाचष्टे करोति वा वेदापयति, अविवेदपत् ॥ इति नामधातुप्रक्रिया ॥ ॥ अथ भावकर्मप्रक्रिया ॥ क्यः शिति ।३।४॥७०॥ सर्वस्माद् धातो वकर्मविहिते शिति क्यः प्रत्ययो भवति । तत्साप्यानाप्यादित्यादिना कर्मणि सकर्मकेभ्यो भावे चाऽकर्मकेभ्य आत्मनेपदप्रत्यया बोध्याः । यदर्थे प्रत्ययः स उक्तः। उक्त कर्तरि कर्मणि च प्रथमा । अनुक्ते कर्तरि तृतीया, कर्मणि चानुक्ते द्वितीया। क्रियते कटश्चैत्रेण । अक्रियत, क्रियताम् , क्रियेत॥ भावकर्मणोः ।३।४।६८॥ सर्वस्माद् धातो र्भावकर्मविहितेऽद्यतन्यास्ते परे जिच् प्रत्ययो भवति तलुक् च । अकारि ॥ १-अत्र त्रन्त्यस्वरादेरिति न प्रवर्तते आकारविधानसामर्थ्यात् । प्वागमः शवि गुणायादेशौ । २-रिः शक्येति रि इत्यादेशः, क्यस्य कित्त्वान्न गुणः । ३-ञिचि नामिन इति वृद्धिः ।...."
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy