SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३० हैमनूतनलघुप्रक्रिया तपसः क्यन् ।३।४।३६।। तपःशब्दात्कर्मणः करोत्यर्थे क्यन्प्रत्ययो वा भवति । तपः करोति तपस्यति, अतपसीत् , अतपस्यीत् ॥ - नमोवरिवश्चित्रकोऽर्चासेवाश्चर्ये ।३।४।३७॥ नमस्वरिवस्-चित्रङ् इत्येभ्यः शब्देभ्यः कर्मभ्यो यथासंख्यं पूजासेवाश्चर्येष्वर्थेषु क्यन्प्रत्ययो वा भवति । नमस्करोति नमस्यति देवान् , अनमसीत् , अनमस्यीत् । नमसिता, नमस्यिता। परिवः सेवां करोति वरिवस्यति गुरून् , अवरिखसीत् , अवरिवस्यीत् । चित्रमाश्चर्य करोति चित्रीयते । चित्रङ् इति डिस्करणादात्मनेपदम् , अवयवेधचरितार्था अनुबन्धाः समुदायमुपकुर्वन्ति । अचित्रीविष्ट ॥ __णिज्बहुलं नाम्नः कृगादिषु । ३।४।४२॥ कगादीनां धातूनामर्थे नाम्नो णिच्प्रत्ययो भवति बहुलम् ॥ त्रन्त्यस्वरादेः ।७।४।४३॥ तृप्रत्ययस्याऽन्त्यस्वरादेश्रावयवस्य इमनि णीष्ठेयसुषु च प्रत्ययेषु परेषु लुग्भवति । मुण्डं करोति मुण्डयति च्छात्रम् । अमुमुण्डत् । पटुं करोति पटयति, अपैपटत् । लघु करोति लघयति, अललघत् । आदिना पटुमाचष्टे पटयतीत्यादि । एवमन्येऽपि प्रसिद्धा २-क्यो वेत्यस्य अत इति लुकि कृते प्रवृत्तिरित्यलुकः स्थानिवद् भावाद् व्यञ्जनादेर्वेति न प्रवर्तते इति ध्येयम् । ३-उलुकः स्थानिवद्भावान्न वृद्धिः । ४-णौ समानलोपीति नेत्त्वादीति बोध्यम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy