________________
हैमनूतनलघुप्रक्रिया
२२९ प्रत्यये परे लुग्वा स्यात् । अपयसिष्ट, अपयस्थिष्ट । पयायिता, पयसिती, पयस्यिता, पयायिष्यते, पयसिष्यते, पयस्यिष्यते ॥
ओजोऽप्सरसोः ॥३॥४॥२८॥ ओज शब्दादप्सरःशब्दाच्च कर्तरुपमानभूतादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति सलोपश्च। ओजस्वीवाचरति ओजायते, औजायिष्ट । अप्सरायते, आप्सरायिष्ट ॥
फेनोष्मबाष्पधूमादुद्रमने ।३।४।३३॥ फेन-ऊष्मन्बाष्प-धूम-एभ्यः कर्मभ्य उद्वमनेऽर्थे क्यङ्प्रत्ययो वा भवति । फेनमुद्वमति फेनायते, अफेनायिष्ट ।
नं क्ये ।१।१।२२॥ नकारान्तं नाम क्ये प्रत्यये परे पदसंज्ञं स्यात् । एवमूमाध्यते, बाप्पायते, धूमायते ॥
सुखादेरनुभवे ।३।४।३४॥ सुखादिभ्यः कर्मभ्योऽनुभवेऽर्थे क्यङ्प्रत्ययो वा भवति । सुखमनुभवति सुखायते, असुखायिष्ट । दुःखमनुभवति दुःखायते, अदुःखायिष्ट ।
शब्दादेः कृतौ वा ।।४॥३५॥ शब्दादिभ्यः कर्मभ्यः करोत्यर्थे क्यङ् प्रत्ययो वा भवति । शब्दं करोति शब्दायते, अशब्दायिष्ट ॥ ९-क्यो वेति वा यलुक् । १०-अत इत्युलकि वा यलुक । १-ओजः शब्दो वृत्तिविषये तद्वतीति बोध्यम् । दीर्घश्च्चीति दीर्घः । २-पदत्वान्नलोपे दीर्घश्च्वीति दीर्घः।