________________
२२८ हैमनूतनलघुप्रक्रिया क्यन्प्रत्ययो वा भवति । पुत्रमिवाचरति पुत्रीयतिच्छात्रम् । प्रासादे इवाचरति प्रासादीयति कुट्यां भिक्षुः । धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते उपसर्गसमानाकार पूर्वपदं पृथक् क्रियते । प्रासादीयत् , प्रासादीयीत् ॥
- कर्तुः क्विगल्भक्लीबहोडात्तु ङित् ।३।४।२५॥ कर्तुरुपमानान्नाम्न आचारेऽर्थे विप् प्रत्ययो वा भवति, गल्मक्लीबहोडेभ्यः पुनः स एव डिन्त् । तत एभ्य आत्मनेपदम् । अश्व इवाचरति अति, आश्वत् , आश्वीत् , अश्वाञ्चकार, अश्व्यात् , अश्विता। प्रगल्भ, इवाचरति प्रगल्भते, प्रागल्भत, प्रागल्भिष्ट, प्रगल्भाञ्चक्रे । क्लीबते, होडते ॥ .. ___ क्यङ् ।३।४।२६॥ कर्तुरुपमानादाचारेऽर्थे क्यप्रत्ययो वाः भवति । हंस इवाचरति हंसायते, अहंसायिष्ट ॥
सो वा लुक्च ३।४।२७॥ स इत्यावर्तते । तत्रैकं पञ्चम्यन्तमपरं षष्ठ्यन्तम् । सकारान्तात्क रुपमानादाचारेऽर्थे क्यङप्रत्ययो भवति अन्त्यसकारस्य च लुग् वा भवति । पय इवाचरति पयायते, पर्यस्यते, अपयायिष्ट,
क्यों वा ।४।३।८।। धातोर्व्यञ्जनात्परस्य क्यस्याऽशिति ३-शवि लुगस्येत्यलुक् । ४-स्वरादेरिति वृद्धिः। ५-लुगस्येव्यलुक् ।
आदिवृद्धिः। ६-दीर्घश्च्वीति दीर्घः । ७-दीर्घ च्वीति दीर्घः । ८-अव्यञ्जने इत्युक्तेः पदत्वाभावान्न रुः।