________________
२२५
हैमनूतनलघुप्रक्रिया स्मे च वर्तमाना ।५।२।१६॥ भूतानद्यतने परोक्षेचापरोक्षे वर्तमानाद्धातोः स्मशब्दे पुरादौ चोपपदे वर्तमाना विभक्तिर्भवति । वसन्तीह पुराच्छात्राः। पृच्छति स्म पुरोधसम् ॥ . पुरायावतोवर्तमाना ।५।३।७।। पुरायावतो निपातयोरुपपदयोर्वर्त्यति धात्वर्थे वर्तमानाद् धातोर्वर्तमाना विभक्तिर्भवति । पुरा भुङ्क्ते, यावद् भुक्ते, भोक्ष्यते इत्यर्थः ॥
कदाको न वा ।५।३।८॥ कदाकोरुपपदयोवस्यत्यर्थे वर्तमानाद धातोवर्तमाना विभक्तिर्वा भवति । कदा भुङ्क्ते, भोक्ष्यत इत्यर्थः। पक्षे-कदा भोक्ष्यते। कदा भोक्ता । कहि मुझते । पक्षे कहिँ भोक्ष्यते, कहि भोक्ता ॥
सत्सामीप्ये सद्वद्वा ।५।४।१॥ वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद् धातोर्वर्त्तमानावत्प्रत्यया वा भवन्ति । कदाऽऽगतोऽसि ? अक्मागच्छामि, अयमागमम् । कदा गमिष्यसि ? एष गच्छामि, एष गमिष्यामि ॥
सतीच्छार्थात् ॥२४॥ समानेऽथे वर्तमानाद् बातोरिच्छार्थकात्सप्तमी वा भवति । इच्छेन, इच्छति ॥
आशिष्याशीः पञ्चम्यौं ।५।४।३८॥ आधी विशिष्टे