________________
२२४
हैमनूतनलघुप्रक्रिया करोतिरविवक्षितकर्मको बोध्यः॥
- इङितः कर्तरि ॥३॥३॥२२॥ इकारेतो कारेतश्च धातोः कर्त्तर्यात्मनेपदं भवति । एधते, शेते ॥
श्रुसदवस्भ्यः परोक्षा वा ।५।२।१॥ श्रु-सद्-चस् एभ्यो धातुभ्यो भूतार्थवृत्तिभ्यः परोक्षाविभक्तिर्वा भवति । उपशुश्राव । पक्षे यथाकालं प्रत्ययाः। उपाशृणोत् , उपाश्रौषीत् । उपससाद । पक्षे-उपासीदत् , उपासदेत् । अनूवास, पक्षे अन्ववसत् , अन्ववात्सीत् ।।
अद्यतनी ५।२।४॥ भूतेऽर्थे वर्तमानाद् धातोरद्यतनीविभक्तिर्भवति । अभूत् , अकार्षीत् ।।
विशेषाविवक्षाव्यामिश्रे ।५।२।६॥ अनद्यतनादिविशेषस्याविवक्षायां व्यामिश्रणे च सति भूतेऽर्थे वर्तमानाद् धातोरद्यतनीविभक्तिर्भवति । अकार्ष कटम् ।। ___ वाद्यतनी पुरादौ ।५।२।१५॥ भूतानद्यतने परोक्षे चापरोक्षे चार्थे वर्तमानाद् धातोः पुरा इत्यादावुपपदे अद्यतनीविभक्तिर्भवति वा। अवात्सुरिह पुराच्छात्राः। पक्षे-अवसन् , ऊधुरिति वा ॥..... ४-श्रौतीति सीदादेशः । ५-लदिदित्यादिनाऽङ्। ६-यज़ादीति वृत् , समानदीर्घः। ७-सस्त इति तादेशः । ८-इन्थ्यसंयोगादिति कित्त्वे यनादीति वृति द्वित्वादिकार्ये घस्वस इति षः। . :.