________________
२२६
हैमनूतनलघुप्रक्रिया ऽर्थे वर्तमानाद् धातोराशीः पञ्चम्यौ विभक्ती भवतः । जीयात् , जयतात् ॥ - मायद्यतनी ।५।४।३९॥ माझ्युपपदे धातोरद्यतनीविभक्तिर्भवति । सर्वविभक्त्यपवादः । मा कोर्षीदधर्मम् ।। - सस्मे त्यस्तनी च ५।४।४०॥ स्मशब्दसहिते माझ्युपपदेषातो_स्तनी चकारादद्यतनी च विभक्तिर्भवति । मा स्म करोत् , मा स्म कार्षीत् ॥
धातोः सम्बन्धे प्रत्ययाः ५॥४॥४१॥ धात्वर्थानां विशेषणविशेष्यभावे सति अयथाकालमपि प्रत्ययाः साधवो भवन्ति । वसन् ददर्श । भावि कृत्यमासीत् ॥
इच्छार्थे कर्मणः सप्तमी ।५।४।८९॥ इच्छार्थे धातावुपपदे तुल्यकर्तृकेऽर्थे वर्तमानात्कर्मभूताद् धातोविशेष्यविशेषणभावे सति सप्तमीविभक्तिभवति । भुञ्जीयेतीच्छति ॥
॥ इतित्याद्यर्थप्रक्रिया ॥
॥ अथ नामधातुप्रक्रिया ॥ तत्र नाम्न परतः काम्यक्यङ्ग्यन्णिविपक्यङ् प्रत्ययेषु सत्सु तदन्तस्य क्रियावाचकत्वाद् धातुत्वमिति स नामकृतिकवाद धातुर्वावधातुः। काम्मदय उच्यन्ते। १-अमालेति पर्युदासान्नाट् । २-अमावेति नाट्।