________________
हैमनूतनलघुप्रक्रिया
२२१ वेः स्वार्थे ।३।३.५०॥ पादविक्षेपेऽर्थे विद्यमानाद् वे परात् क्रमेः कर्तर्यात्मनेपदं भवति । साधु विक्रमते वाजी ॥
प्रोपादारम्भे ॥३॥३॥५१॥ आरम्भेऽर्थे वर्तमानात् प्रोपाभ्यां परात्क्रमेः कर्तर्यात्मनेपदं भवति । प्रक्रमते, उपक्रमते । प्रारभते इत्यर्थः॥ ___ आडो ज्योतिरुदगमे ।३।३।५२।। आङः पराक्रमः ज्योतिषां चन्द्रादीनामूर्ध्वगमनेऽर्थे वर्तमानाकर्त्तर्यात्मनेपदं भवति । आक्रमते भानुः । उदयतीत्यर्थः ॥
नुप्रच्छः ।३।३५४॥ आङ्पूर्वान्नौतेः पृच्छतेश्च कर्त्तयात्मनेपदं भवति । आनुते शुगालः, उत्कण्ठितः शब्दं करोतीत्यर्थः। अत्रार्थ एवायं विधिर्नान्यत्र । आपृच्छते गुरून् , वियुज्यमानः पृच्छतीत्यर्थः । अत्रार्थ एवायं विधिः। आपृच्छत, आप्रष्ट, आपप्रच्छे, आप्रक्षीष्ट, आप्रष्टासे आप्रक्ष्यते ॥ ___यमः स्वीकारे ।३।३।५९॥ उपाद् यमः स्वीकारेऽथें वर्तमानात्कर्यात्मनेपदं भवति । कन्यामुपयच्छते, परिणय-- तीत्यर्थः॥
वा स्वीकृती।४।२४०॥ स्वीकृतौ वर्तमानाद् यमेः १-घुड् हस्वादिति सिलोपे अनुनासिके चेति शादेशे यजसजेति पः । . टवर्गः । २-शादेशे यजसृजेति षः, षढोरिति कः षः । ...