SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२० मनूत लघु प्रक्रिया पराजेष्ट, पराजेदवस्, पराजेड्वम् । पराजिग्ये, पराजिग्यिदवे, पराजिग्यिध्वे, पराजेषीढ्वम्, पराजेतासे । विजयते ॥ अन्वाङ्परेः | ३|३|३४|| अनु - आङ् - परि इत्येभ्य उपसर्गेभ्यः परात् क्रीडतेः कर्त्तर्यात्मनेपदं भवति । अनुक्रीडते, अन्वक्रीडिष्ट, अनुचिक्रीडे, अनुक्रीडिषीष्ट, अनुक्रीडितासे, आक्रीडते, परिक्रीडते ॥ भुजोऽत्राणे | ३|३|३७|| पालनादन्यत्रार्थे वर्तमानाद् भुनक्तेः कर्त्तर्यात्मनेपदं भवति । अन्नं भुङ्क्ते, अभुक्त, बुभुजे भुक्षीष्ट, भोक्तासे । पालने तु महीं भुनक्ति ॥ शदेः शिति | ३ | ३ | ४१ || शदेः शिद्विषयात्कर्तर्यात्मनेपदं भवति । शीयते, अशीयत । अशिति तु - अशदत्, शशाद ॥ I म्रियतेरयतन्याशिषि च | ३ | ३ | ४२ || म्रियतेरद्यतन्याशीर्विषयाच्छिद्विषयाच्च कर्त्तर्य्यात्मनेपदं भवति । म्रियते, अमृत, मृषीष्ट । अन्यत्र तु ममार, मरिष्यति ॥ युद्भ्योऽयतन्याम् ||३|३|४५॥ द्युतादिभ्योऽद्यतनी-विषये कर्त्तर्य्यात्मनेपदं वा भवति । अद्युतत्, अद्योतिष्ट || क्रमोऽनुपसर्गात् | ३ | ३|४७ ॥ अविद्यमानोपसर्गात्क्रमेः - कर्त्तर्य्यात्मनेपदं भवति । क्रमते, अक्रंस्ते ॥ २ - क्रम इति नेट । "
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy