________________
२१८ , हैमनूतनलघुप्रक्रिया
परेम॒षश्च ।३।३।१०४॥ परिपूर्वान्मृषेर्वहेश्च कर्तरि परस्मैपदमेव भवति । परिमृष्यति, परिवहति ॥ ___व्याङ्परेरमः ।३।३।१०५॥ व्याङपरिभ्यः पराद् रमेः कर्तरि परस्मैपदं भवति । विरमति, विरमेत् , विरमतु, व्यरमत् , व्यरंसीत् , विरराम, विरेमैतुः, विरेमिथ, विररन्य, विरम्यात् , विरन्तों, विरस्यति, व्यरंस्यत् ॥ आरमति, परिरमति ॥
बोपात् ।३।३।१०६॥ उपाद् रमेः कर्तरि परस्मैपदं भवति वा । उपरमति भार्याम् । उपरमयतीत्यर्थः । उपरमत्यवद्यात् । एवमुपरमते ॥
अणिगि प्राणिकर्तृकानाप्याण्णिगः ।३।३।१०७॥ अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्मात् णिगन्तात्कर्तरि परस्मैपदमेव भवति । शेते मैत्रः, शाययति मैत्रम् , अशीशयत् । आस्ते चैत्रः, आसयति चैत्रम् , आसीसयत् ॥
चल्याहारार्थे धयुधपुद्रसुनशजनः ।३।३।१०८॥ चलिरिह कम्पने । चल्यर्थेभ्य आहारार्थेभ्य इङ्-बुध्-युध्-गुद्रु-सु-नर-जन्-इत्येतेभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपदं १-घमिरमिनमीतीट सोन्तश्च । शिड्हे इत्यनुस्वारः । २-अनादेशादेरित्येवं द्विरुक्त्यभावश्च । ३-म्नामिति पञ्चमः । ४-म्नामिति पञ्चमः ५-शिड्हेइत्यनुस्वारः।