________________
हैमनूत लघु प्रक्रिया
२१७
अचर्करुः । अचरीकारीत्, अचरिकारीत्, अचर्कारीत्, अचकारिष्टामित्यादि । चर्करितो, चरीकरिता, चरिकरिता । नरीन्रतीति, नरिनृतीति, नर्नृतीति, नरीनर्ति, नरिनर्ति, नर्नर्ति । वरीवृतीति, वरिवृतीति, वर्वृतीति, वरीवर्ति, वरिवर्ति, वर्वर्ति । पाप्रच्छीति, पप्रिष्टि, पापृष्टः पापृच्छति । पाप्रश्मि | पापृश्मः ॥ इति यङ्लुबन्तप्रक्रिया || ॥ अथ परस्मैपदप्रक्रिया |
1
शेषात् परस्मै | ३ | ३ | १०० ॥ येभ्यो धातुभ्यो येन निमित्तेनात्मनेपदमुक्तं तद्रहिताद् धातोः कर्त्तरि परस्मैपदं भवति । भवति, जयति, तिष्ठतीत्यादि ॥
परानोः क्रमः | ३ | ३ | १०१ || परानुभ्यामुपसर्गाभ्यां परात् करोतेः कर्तरि परस्मैपदमेव भवति । गित्वात्प्राप्तस्य विधिर्नियमार्थो बोध्यः । पराकरोति, अनुकरोति ॥
प्रत्यभ्यतेः क्षिपः | ३ | ३ | १०२ || प्रत्यभ्यतिभ्य उप-सर्गेभ्यः परात् क्षिपेः कत्तेरि परस्मैपदमेव भवति । प्रतिक्षिपति, अभिक्षिपति, अतिक्षिपति ॥
•
प्राद्वहः | ३|३|१०३ || प्रपूर्वाद्वहेः कर्त्तरि परस्मैपदमेव भवति । प्रवहति ॥
९ - इटि गुणः । १० - अनुनासिके चच्छ्व इति शः, यजसृजेति षः । तवर्गस्येति टवर्गः । ११ - ङित्वाद् वृत्, श, षः, टः । १२- व्युक्तोपान्तस्येति गुणनिषेधः ।