________________
२१६
हैमनूतनलघुप्रक्रिया बोभूतात् , बोभूहि, बोभूतात् , बोभूत, बोभवानि । अबोभवीत् , अबोभोत् , अबोभवः। अबोभूत् । वस्तुतस्तु न वृद्धिरित्यस्य अविति प्रत्यये यः कितो डिन्तश्च लोप इत्यर्थः । एवं यङ्लुपोऽनैमित्तिकत्वाद गुणो भवत्येव । बेभिदितेत्यादौ यङन्ते तु यङो डिवाल्लुकः स्थानिवत्वाच्च न गुण इति ध्येयम् । ततश्च अबोभोदित्येव रूपम् । अत एव 'भवतेरि' त्यादिसूत्रे बृहद्वृत्तौ अबो भोदिति प्रत्युदाहरणमपि सङ्गच्छते । एवं च मतान्तरसङ्ग्रहार्थमेव कितोडिन्तश्च लोपे सतीत्यादिव्याख्या बृहद्वृत्तावाढतेति प्रतिभाति । अबोभोताम् , अबो वन , अबोभूवम् , अबोभोम । बोभवाश्चकार । बोभूयात् , बोभविता, वोभविष्यति, अबोभविष्यत् ।
रिरौ च लुपि ।४।१।५६।। ऋमतां धातूनां यङो लुपि द्वित्वे सति पूर्वस्य रिरौ रीश्चान्तोऽवयवो भवति । पुनः पुनरतिशयेन वा करोतीति चरीकरीति, चरिकरीति, चर्करीति, चरीकर्ति, चरिकति चर्कर्ति, चरीकृतः, चरिकृतः. चर्कतः। चरीक्रति, चरिक्रति, चक्रति । अचरीकरुः, अचरिकरुः, ४-अविच्छितो ङित्वान्न गुणः । ५-द्वयुक्तजक्षेति पुस् , पुस्पाविति गुणेऽवादेशः । ६-सिज्लुपि गुणः । भवतेरिति नेह प्रवर्तते, तिव् निर्दिष्टत्वात् । एवं च सिज्लुप्यत्र तामादावपि च गुणः । अशित्त्वान्न ङित्त्वमिति ध्येयम् । ७-अभुव इति पर्युदासान्न पुस् । गुणे भुवो व इत्यूः । ८-ईदागमे गुणः ।