________________
हैमनूतनलघु प्रक्रिया
२१५
चाय की | ४|१|८६ ॥ चायृगित्यस्य यङि परे की इत्ययमादेशो भवति । पुनः पुनरतिशयेन वा चायतीति चेकीयते, अचेकीयिष्ट । पुनः पुनरतिशयेन वा वष्टीति वावैश्यते, अवावशिष्ट । पुनः पुनरतिशयेन वा भवतीति बोर्भूयते, अबोभूयिष्ट, बोभूयाञ्चक्रे, बोभूयिता ॥ इति यङन्तप्रक्रिया ||
॥ अथ यङ्लुबन्तप्रक्रिया ||
"
बहुलं लुप् |३|४|१४|| यङो लुप् बहुलं भवति । तिवा शवानुबन्धेन, निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तं च, पञ्चैतानि न यङ्लुपि ॥ तेनेह यङने ङिश्वेऽप्यात्मनेपदं न, अनुबन्धनिर्दिष्टत्वात् 'इङिन्त' इत्यस्य । श्यादयोऽपि न, दिवादिभ्य इत्यादिना गणनिर्दिष्टत्वात् । " यङ्लुपूचे ' त्यादिगणसूत्राच्चादादित्वाच्छ्वपि न । यङ्लुबन्तं परस्मैपदं शेषत्वात् शेषात्परस्मैपदमिति सूत्रात् पुनः पुनरतिशयेन वा भवतीति बोभवीति, बोभोति । बोभूर्तः, बोभुंवति । बोभवीषि, बोभोषि, बोभूयः, बोभूथ । बोभवीमि, बोभोमि, बोभूवः, बोभूमः । बोभूयात्, बोभूयुः बोभवीतु, बोभोतु, । ५ - अयङीति पर्युदासान्न वृत् । ६ - ङिति गुणाप्रवृत्तौ दीर्घवत पर्जन्यवल्लक्षणवृत्त्या दीर्घः ।
"
1
१ - यङ्तु रुस्तोरितीदागमे गुणावादेशौ पूर्वस्य त्वागुणेति गुणः । २अविच्छितो ङित्त्वान्न गुणः । ३ - अन्तो न इति नलुक् । ङित्त्वाद् गुणाभावे उ व् ।