________________
हैमनूत लघुप्रक्रिया
नृतेर्यङि | २|३|१५|| नृतेर्धातोर्नकारस्य यविषये णो न भवति । नरीनृत्यते, अनरीन्रतिष्ट, नरीनृतिता । पुनः पुनरतिशयेन वा भिनत्तीति बेभिद्यते, बेभिदिता । पुनः पुनर्भृशं वा छिनत्तीति चेच्छिद्यंते, चेच्छिदिता । पुनः पुनरतिशयेन वा पृच्छतीति परपृच्छ्रयेते, अपरीपृच्छिष्ट । पुनः पुनरतिशयेन वा स्मरतीति सास्मर्यते', सामरिता ॥
3
२१४
वञ्चस्रंसध्वंस भ्रंशक सपतपदस्कन्दोऽन्तो नीः ४|१|५० ॥ वञ्च् स्रंस्-ध्वंस्-श्रंग्- कस्-पत्- पद् - स्कन्द्-एषां यङन्तानां द्वित्वे सति पूर्वस्य नीरन्तोऽवयवो भवति । पुनः पुनरतिशयेन वा वञ्चतीति वनीर्वेच्यते, अवनीवचिष्ट । पुनः पुनरतिशयेन वा स्रसत इति सनीस्रस्यते । असनीस्रसिष्ट । पुनः पुनर्भृशं वा ध्वंसत इति दनीध्वस्यते, अदनीध्वसिष्ट । पुनः पुनर्भृशं वा अंशत इति बनीभ्रश्यते, अवनीभ्रशिष्ट । पुनः पुनरतिशयेन वा कसतीति चनीकस्यते, अचनीकसिष्ट | पुनः पुनरतिशयेन वा पततीति पनीपत्यते, अपनीपतिष्ट । पुनः पुनरतिशयेन वा पद्यत इति पनीपद्यते अपनीपदिष्ट । पुनः पुनरतिशयेन वाऽऽस्कन्दतीत्याचनीस्कद्यते, आचनीस्कदिष्ट ||
१ - स्वरेभ्य इति द्विरुक्तिः, अघोषे इति प्रथमः | २ - यङि मृत् । ३–क्ययङिति गुणे द्वित्वम् । ४- यङि नो व्यञ्जनस्येति आन्त्यन कारलुप् ।