SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ हेमनूतनलघुप्रक्रिया फलातिरेको वा भृशत्वम् । प्रधानक्रियायाः क्रियान्तराव्यवधानेनाssवृत्तिराभीक्ष्ण्यम् । फलातिशयो यथावत्क्रियानिष्पत्तिश्च भृशत्वं, पौनःपुन्यमाभीक्ष्ण्यमिति यावत । ङिच्चादात्मनेपदी यङन्तः ॥ २०९ आगुणावन्यादेः |४|१|४८ ॥ धातोर्यङन्तस्य द्वित्वे सति पूर्वस्य नीमुरीरिरन्तवर्जितस्य आकारों गुणश्चासन्नौ भवतः । अकारस्य आकार इवर्णादेश्व गुण इति यावत् । न्यादिरागमो वक्ष्यमाणो बोध्यः । भृशं पुनः पुनर्वा पचतीति पापच्यते । पापच्येत, पापच्यताम् । अपापच्यत । 1 योऽशिति | ४ | ३ |८०|| व्यञ्जनान्ताद् धातोः परस्य यकारस्याऽशिति प्रत्यये परे लुग् भवति । अपापचिष्ट, पापचाञ्चक्रे, पापचिषीष्ट, पापचिता, पापचिष्यते, अपायचिष्यत ॥ अद्यर्तिसूत्रिमूत्रिसूच्यशूर्णोः | ३|४|१०|| अटूऋ-सूत्र मूत्र-सूच अश्- ऊर्णु-एभ्यो धातुभ्यो भृशाभीक्ष्ण्ये वर्त - मानेभ्यो यङ् प्रत्ययो वा भवति । एषु केषाञ्चिदव्यञ्जना, दित्वात्केषाञ्चिदने कस्वरत्वादुर्णीतेश्व उभय विरहादप्राप्ते विधिरयम्। भृशं पुनः पुनर्वाऽतीत्यायते । आटाटिष्ट, 7 २ - सन्यङश्चेति द्वित्वं पूर्वस्माऽऽत्वम् । ३. अत इत्यलुक्, ततो यलोपः, बङन्तोऽनेकस्वरत्वात् सेट् । ४-स्वरादेरिति ट्यशब्दस्य द्वित्वम्, द्वित्वे व्यञ्जनस्येति ब् लोपे आत्वं बोध्यम् । १४
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy