________________
२०८
हैममूतनलघुप्रक्रिया इत्यर्थः । चिकित्सति व्याधिम् , प्रतिकरोतीत्यर्थः । निग्रहो विनाशोऽपि चेह प्रतीकारः । चिकित्सति चौरम् , निगृह्णातीत्यर्थः । चिकित्सति क्षेत्रे तृणानि, नाशयतीत्यर्थः । अचिकित्सीत् ।।
शान् दान मान् बधान्निशानार्जव विचारवैरूप्ये दीर्घश्वेतः ॥४७॥ शान-दान-मान्-बध् इत्येतेभ्यो यथासंख्यं निशाने आर्जवे विचारे वैरूप्ये चार्थे वर्तमानेभ्यः स्वार्थे सन् प्रत्ययो भवति, दीघश्चैषां द्विवचने सति पूर्वस्येकारस्य ॥ दानी तेजने । शानी अवखण्डने । मानि पूजायाम् । बधि बन्धने । एते शब्धिकरणाः। तत्र निशाने शीशांसते, अशीशांसिष्ट, शीशांसति, अशीशांसीत् । आर्जवे दीदांसते, दीदांसति, अदीदांसिष्ट, अदीदांसीत् । विचारे मीमांसते, अमीमांसिष्ट । वैरूप्ये बीभत्सते, अबीभत्सीष्ट ॥ इति सनन्तप्रक्रिया ॥
॥ अथ यङन्त प्रक्रिया ॥ व्यञ्जनादेरेकस्वराद् भशाभीक्ष्ण्ये यङ्वा । ३।४।९ भृशत्वविशिष्टे आभीक्ष्ण्यविशिष्टे चार्थे वर्तमानाद् धातोर्व्यञ्जनादेरेकस्वराद् यड्प्रत्ययो वा भवति। स्वरादेरनेकस्वराचं धातोनायं विधिः। अवयवक्रियाणां क्रियान्तरान्यवधानेन यथोचितक्रमेण साकल्पेन निष्पत्ति शत्वम् । १-गडदेति चतुर्थः, अघोष इति प्रथमः । . . ..