________________
२०२
हैमनूतनलघुप्रक्रिया ___ ऋस्मिपूडजशौकगृहधृप्रच्छः ।४।४।४८॥ ऋस्मि-पू-अ-अश-कृ-ग-द-धृ-प्रच्छ्-एभ्यः परस्य सन आदिरिड् भवति । प्रष्टुमिच्छति पिपृच्छिषति, अपिपृच्छिषीत् ॥
नामिनोऽनिट् ।४।३।३३॥ नाम्यन्ताद् धातोरनिट सन् किद्वद् भवति ॥ ___ स्वरहन्गमोः सनिथुटि ।४।१।१०४॥ स्वरान्तस्य धातोर्हन्तेर्गमेश्च धुडादौ सनि परे स्वरस्य दीर्थों भवति । भवितुमिच्छति बुर्भूषति, अबुभूषीत् , बुभूष्यात् । जेतुमिच्छति जिगीषेति, अजिगीषीत् । जिगीषिता। चेतुमिच्छति चिकीपति, चिचीपति, स्तोतुमिच्छति तुष्टूपति । कर्तुमिच्छति चिकीर्षति, चिकीर्षिता हन्तुमिच्छति जिघांसैंति, अजिघांसीत् ॥ _.
सनीडश्च ।४।४।२५॥ इङ इणिकोश्वाज्ञाने वर्तमानयोः सनि परे गमुरादेशो भवति । अज्ञान इति इण एव विशेषणम् ॥ १०-कित्त्वाद् गुणाभावः, दीर्घः पर्जन्यवल्लक्षणन्यायेन । ११-कित्त्वान्न
गुणः । दीर्घः । जेगिरिति गिः । १-अनिट्सनि कित्त्वान्न गुणः, दीर्घः, चेः किर्वेति किः । २-अघोषे शिट इति शिड्लुक् । ३-कित्त्वाद्गुणाभावे दीर्धे इरादेशे भ्वादेर्नामिन इति दीर्घः । ४-अङे हीति घः । शिड्हें इत्यनुस्वारः ।