SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ हैम नूतन लघुप्रक्रिया ग्रह गुहश्च सनः |४|४| ६० ॥ ग्रहि गुहिभ्यामुवर्णान्ताच्च धातोर्विहितस्य सन आदिरिड् न भवति ॥ २०१ रुदविदमुषग्रहस्वपप्रच्छः सन् च | ४ | ३ | ३२॥ रुद् -विद् - मुष्-ग्रह- स्वप्- प्रच्छ-एभ्यो धातुभ्यः परः सन् क्त्वा च द्विद् भवतः । ग्रहीतुमिच्छति जिघृक्षति, अजिघृक्षीत् जिघृक्षाम्बभूव, जिघृक्षिष्यति ॥ " उपान्त्ये | ४ | ३ | ३४ ॥ नामिन्युपान्त्ये सति धातोः परोऽनट् सन् द्विद् भवति । गोडुमिच्छति जुघुक्षति, अजुघुक्षीत्, जुघुक्ष्यात् । भेतुमिच्छति विभित्सति, अबिभित्सीत् । मोषितुमिच्छति मुमुषिषति, अमुमुषिषत्, अमुमुषिषीत् । स्वप्तुमिच्छति सुषुप्सति, असुषुप्सीत् । प्रयोक्तृव्यापारे णिगन्तात्सनि तु स्वपो णावुः | ४|१|६२ || स्वपेण सति द्वित्वे कृते पूर्वस्योकारो ऽन्तादेशो भवति । स्वापयितुमिच्छति सुष्वापयिषति, असुष्वापयिषीत् सुष्वापयिषाञ्चकार । रोदितुमिच्छति रुरुदिषति, अरुरुदिषीत् । वेदितुमिच्छति विविदिषति, अविविदिषीत् । " ७ ग्रह गुह इतीनिषेधः, कित्त्वाद् मृत्, द्वित्वादिकार्यम्, ढत्वे चतुर्थः, षढोरिति कः, षः । ८ - आम्यत इत्यलुक् । तौ मुम इति स्वानुस्वारानुनासिकौ । ९- कित्त्वाद् वृति द्वित्वादि ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy