SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०० हैमनूतनलघुप्रक्रिया चुरादिण्यन्ताण्णौ पूर्वणिलोपे-चोरयन्तं प्रयुङ्क्ते चोरयति, अचूचुरत् । अचुचोरदिति तु ध्यान्ध्यविलसितमेव । इति णिगन्तप्रक्रिया ॥ ॥ अथ सन्नन्तप्रक्रिया ॥ तुमोदिच्छायां सन्नतत्सनः।३।४।२१॥यो धातुरिषेः कर्म, इषिणैव च समानकर्तृकः स तुमर्हः । तुमर्हाद् धातोरिच्छायामर्थे सन् प्रत्ययो वा भवति ॥ सन्यङश्च ।४।१३॥ सन्नन्तस्य यङन्तस्य च धातोराद्य एकस्वरोऽवयवो विर्भवति । पठितुमिच्छति पिपठिषति, पिपठिषेत् , पिपठिषतु , अपिपठिषत् , अपिपठिषीत् , पिपठिषाश्चकार, पिपठिष्यात् , पिपठिषिता, पिपठिषिष्यति, अपिपठिषिष्यत् ॥ अटितुमिच्छति अटिटिषति, आटिटिषत् , आटिटिषीत् । अत्तुमिच्छति जिघसंति, अजियत्सत् , अजिघत्सीत् , जिघत्सामास ॥ ३-पठनं हीच्छायाः कर्म, इच्छायाः कर्ता च तस्य कर्तेति पधातुस्तु.. मर्हः । एवमन्यत्राऽप्यूह्यम्। ४-सनीटि द्वित्यादिकार्ये सन्यस्येतीत्वे नाम्यन्तस्थेति षः । शवि लुगस्येत्यलुक् । १-इटि अत इत्यलुक् । सन्नन्तोऽनेकस्वरत्वात्सेडिति ध्येयम् । २-अनेक. स्वरत्वादाम्यत इत्यलुक् । ३-अत इत्यलुक् । ४-स्वरादेरिति टिशब्दस्य द्वित्वम् । ५-स्वरादेस्तासु । ६-अदेर्घस्ल सनद्यतनीति घस्लादेशे द्वित्वादिकार्ये इत्वे सस्त इति तः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy