________________
हैमनूतनलघुप्रक्रिया २०३ प्राग्वत् ।३।३।७४॥ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्ताकर्तर्यात्मनेपदं भवति । यत्पूर्वस्य धातोरनुबन्धेनोप-. पदेनार्थविशेषेण वाऽऽत्मनेपदं दृष्टं तत्सनन्तादतिदिश्यत इति यावत् । अध्येतुमिच्छति अधिजिगांसते, अध्यजिगांसत, अध्यजिगांसिष्ट, अधिजिमांसाश्चक्रे, अधिजिगांसिसीष्ट । इण-एतुमिच्छति जिगमिषति विदेहान् , अजिगमिषीत् । इक्-अध्येतुमिच्छति अधिजिगमिषति मातुः। . इणो ज्ञाने प्रतीषिर्षति प्रत्यैषिषत , प्रत्यैषिषीत् । अधीडो णिगन्तात्तु अध्यापयितुमिच्छति अधिजिगापयिषति, अध्या- . पिपयिषति, अध्यजिगापयिषीत् , अध्यापिपयिषीत् ॥ .
वौ व्यञ्जनादेः सन् चायवः ।४।३।२५॥ अकारे इकारे चोपान्त्ये सति व्यजनादेर्धातोः परः सन् क्त्वा च सेटौ वा किद्वद् भवतः, यकारान्तात् वकारान्ताच्च न भवतः। द्योतितुमिच्छति दिद्युतिषते, दिद्योतिषते, अदिद्युतिषीत् , अदिद्योतिषीत् । अदिद्युतिषिष्ट । अदिद्योतिषिष्ट । लेखितुमिच्छति लिलिखिषति, लिलेखिपति, अलिलिखिपीत् , अलिलेखिषीत् । वर्तितुमिच्छति विवर्तिषते, अवि---
५-स्वरहनिति दीर्घः, शिड्हे इत्यनुस्वारः । ६-स्वरादे द्वितीयइतिसशब्दस्य द्वित्वे सन्यस्येतीः । ७-सनि णौ गादेशे पुः। ८-गादेशविकल्पे आत्वे पौ पिशब्दस्य द्वित्वम् । ९-द्युतेरिरिति पूर्वस्य इः । १०-युद्भ्य इति विकल्पेनात्मनेपदम् । .