SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ हैम नूतनलघुप्रक्रिया जितेरिः |४| २|३८|| जिघ्रतेरुपान्त्यस्य ङपरे णावि कारो वा भवति ॥ अजिघ्रिपैत् । अजिघ्रपत् । स्थापयति । लिष्ठतेः |४| २|३९|| तिष्ठतेरुपान्त्यस्य उपरे णाविकारो भवति । अतिष्ठिपत् ॥ १९८ रुहः पः |४| २|१४|| रुहेण परतः पकारोऽन्तादेशो वा भवति । रोपयति, रोहयति । अरुरुपत्, अरूरुहत् ॥ पातेः |४| २|१७|| पांकू रक्षणे इत्येतस्य णौ परे लोऽन्तो भवति । पालयति, अपीपलत् ॥ धूग् प्रीगोर्न ः | ४|२| १८ || धूग् - प्रीग्-इत्येतयो परे नोऽन्तो भवति । धूनयति, अधुनत् । प्रीणयति, अपिप्रिणत् ॥ पाशाछासावेच्या हू वो यः |४| २|२०|| पा-शा-छासा-वे-व्या - हवा एषां णौ परे योन्तो भवति । पाययति ॥ ङे पियः पिष्य |४|१|३३|| ण्यन्तस्य पिबतेर्डपरे पीप्य इत्ययमादेशो भवति, न चायं द्विर्भवति । अपीप्यत् । वाययति ॥ णौ नि |४|१|८८ || हवयतेः सस्वरान्तस्था उपरे ७-इत्वेद्वित्वम् । एवमतिष्ठिपदित्यादावपि द्वित्वविधिरित्वानन्तरं बोध्यम् । १ - णावात्सन्ध्यक्षरस्येत्यात्वे आत ऐरित्यैः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy