________________
१९६ हैमनूतनलघुप्रक्रिया पावयति, पावयते, अपीपवत् , अपीपवत ॥ शासयति, शासयते, अशशासत् , अशशासत ॥ शेषं स्वयमुन्नेयम् ॥ ढोकृङ् गतौ। ढौकते, अढौकिष्ट, ॥ शवविकरणः । ढौकमानं प्रयुङ्क्ते ढोकयति, ढोकयते, अडुढौकत् , अडु ढौकत । राजयति, राजयते, अरराजत् , अरराजत । ___ घटादेहूस्वो दीर्घस्तु वा निणम्परे ।४।२।२४॥ घटादीनां धातूनां णौ परे ह्रस्वो भवति, भिणम्परे तु णौ दीर्थों वा भवति ॥ स्मं आध्याने ॥ अयं घटादिः शव्विकरणः । स्मरति, अस्मार्षीत् , सस्मार, सस्मर्थ, सस्मरिम, स्मर्यात् , स्मर्ता, स्मरिष्यति ॥ स्मरन्तं प्रयुङ्क्ते-स्मरयति स्मरयते ॥
स्मृदृत्वरप्रथम्रदस्तुस्पशेरः ४।१।६५॥ स्मृ-दृ-त्वरप्रथ-मद्-स्तृ-स्पश्-एषां धातूनामसमानलोपे ङ परे णौ द्वित्वे सति पूर्वस्याऽकारोऽन्तादेशो भवति । असस्मरत् , असस्मरत ॥ दारयति, दारयते, अददरत् , अददरत । सन्वद्भावापवादोऽदादेशः परत्वाद्दीर्घमपि बाधते । स्तारयति, अस्तिर , अतस्तरत ॥
५-शास्वृदिद्वर्जनान्न ह्रस्वो न सन्वद्भाव इति नेत्वादि । ६-अयमृदित् ।
9-ऋतं इति नेट् । ८-ऋतश्चेति गुणः। ९-नामिन इति वृद्धौ
घटादित्वादा हस्वः १-अघोषे शिट इति शिटो लुक् ।