________________
हैमनूतनलघुप्रक्रिया
१९३ स्य यकारस्याशिति प्रत्यये परे लुग् भवति । अभिषजीत् । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः। भिषजाश्चकार, भिषज्यात् , भिषजिता, भिषजिष्यति, अभिषजिष्यत् ॥ सुखदुःख तक्रियायाम् ॥ सुखायति, दुःखायति, अमुखायीत् , मुखायाञ्चकार, सुखाय्यात् , सुखायिता, मुखायिष्यति, . अमुखायिष्यत् । शेषं सामान्यम् , एवं दुःखायतेरपि ॥
इति कण्ड्वादयः॥
॥ अथ चुरादयः॥ ॥चुरण स्तेये ॥ चुरादिभ्यो णिच ।३।४।१७॥ चुरादिभ्यो धातुभ्यः स्वार्थे णिच् प्रत्ययो भवति । चारयति, चोरयेत् , चोरयतु, अचोरयत्, अचूचुरत् , चोरयाचकार, चोर्यात्', चोरयिता, चौरयिष्यति, अचोरयिष्यत् ॥ पूजण पूजायाम् ॥ पूजयति, अपूपुजन, पूज्यात् , पूजयिता ॥ चितण संवेदने ॥ चेतयति, अचीचितत् ॥ चितुण् स्मृत्याम् ॥ चिन्तयति, अचिचिन्तत् , चिन्त्यात् ॥ कृतण संशब्दने ॥
४-अत इत्यल्लोपः, पश्चाद् य लोपः । ५-दीर्घश्च्वीति दीर्घः । ६-अत इत्यल्लोपः । ७-णिचि उपान्त्यगुणे अषि गुणायादेशौ । १-णिचि गुणे के इस्वत्वे द्वित्वादौ लघोरिति पूर्वदी णिलोपे अडागमे च... रूपम् । २-णेरिति णिलोपःः । ३-उदित्वादुदितः स्वरादिति नोन्तः, उपान्त्याभावान गुणः।